|| श्रीगणेशस्तोत्र ||
रीगणेशाय नमः
नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ,
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये .. १..
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ,
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् .. २..
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ,
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् .. ३..
नवमं भालचन्द्रं च दशमं तु विनायकम् ,
एकादशं गणपतिं द्वादशं तु गजाननम् .. ४..
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ,
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः .. ५..
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ,
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् .. ६..
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ,
संवत्सरेण सिद्धिं च लभते नात्र संशयः .. ७..
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ,
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः .. ८.. ..
इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ..